अद्य (५ मार्च २०२५) केन्द्रीयमन्त्रिमण्डलस्य सभायां उत्तराखण्डराज्यं उपहारं प्राप्तवान् अस्ति। मोदीसर्वकारेण उत्तराखण्डस्य केदारनाथधाम्न: रोपवे इति रज्जुपथ-परियोजनायाः अनुमोदनं कृतम् अस्ति। सोनप्रयागतः केदारनाथपर्यन्तं १२.९ किलोमीटर् यावत् रज्जुमार्गः भविष्यति, यस्मिन् ४०८१ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। अस्य निर्माणानन्तरं ८ तः ९ घण्टानां यात्रा केवलं ३६ निमेषेषु सम्पन्ना भविष्यति।
केदारनाथ रोपवे परियोजना उत्तराखण्ड रोपवे अधिनियम, 2014 इत्यस्य अन्तर्गतं कार्यं भविष्यति, तदनुसारं अनुज्ञापत्रं, परिचालनस्य निरीक्षणं, सुरक्षा, भाटकनिर्धारणं च विधिरूपरेखा इत्यादिनि कार्याणि भविष्यन्ति। द्वितीया परियोजना हेमकुण्डसाहबनगरे रज्जुमार्गपरियोजनायाः निर्माणम् इत्यस्ति यस्य कृते २७३० कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। अस्याः परियोजनायाः माध्यमेन हेमकुण्डसाहबनगरं, वैली आफ् फ्लावर्स्-नगरं च गन्तुं शक्यते।