Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानसेनाप्रमुखः जनरल् सैयद आसिम मुनीरः कठिनपरिस्थितौ अस्ति। मुनीरविरुद्धं पाकिस्तानसेनायां विद्रोहस्य वातावरणं दृश्यते। कनिष्ठाधिकारिणः विद्रोहीवृत्तिं स्वीकृत्य स्वस्य शीर्षसेनापतिविरुद्धं पत्रं लिखित्वा तं त्यागपत्रं दातुं उक्तवन्त:।  पाकिस्तानसेनायां विद्रोहस्य स्फुलिङ्गः प्रज्वलितः अस्ति। सेनाप्रमुखस्य जनरल् सैयद असीम मुनीरस्य विरुद्धं कनिष्ठाधिकारिणः विद्रोहशरणागता:। पाकिस्तानसेनायाः कनिष्ठाधिकारिणः सेनाप्रमुखस्य जनरल् मुनीरस्य त्यागपत्रस्य आग्रहं कृतवन्तः। तै: उग्रं पत्रं लिखितं, यस्मिन् तेषाम् आरोपः अस्ति यत् मुनिरः सेनायाः उपयोगं राजनैतिक-अत्याचारस्य, व्यक्तिगत-प्रतिशोधस्य च साधनरूपेण करोति इति। सेनाया: नैके अधिकारिण: सैनिका: भारतस्य आक्रमणभयेन आत्मरक्षायै स्वस्य त्यागपत्रं दत्तवन्त: सन्ति इत्यपि श्रूयते। सामाजिकप्रसारमाध्यमेषु अपि तस्य विरुद्धं जनानाम् आक्रोश: स्पष्टतया दृश्यते। स: स्वस्य परिवारस्य रक्षायै तान् सर्वान् विदेशं प्रेषितवान् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्