Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अष्टादश्या: लोकसभायाः प्रथमसत्रस्य आरम्भः अभवत्। लोकसभानिर्वाचने सद्यः निर्वाचिताः सांसदाः प्रथमे द्वितीये च दिने पदस्य शपथं गृह्णन्ति। तदनन्तरं सः संसदस्य आधिकारिकसदस्यः भविष्यति। यस्मिन् केचन सांसदाः सन्ति ये प्रथमवारं सांसदत्वेन शपथं गृह्णन्ति। उल्लेखनीयं यत् संसदि ५२ प्रतिशतं सांसदाः प्रथमवारं शपथग्रहणं करिष्यन्ति। सांसदत्वेन निर्वाचितेभ्य: सम्यक् सुविधा: प्राप्यन्ते। 

१) वेतनम् एक लक्षम्

२) नि:शुल्कयात्रासुविधा

३) चिकित्सासुविधा 

४) दूरभाष:

५) निवृत्तिवेतनम् (न्यूनातिन्यूनं २५०००) यदि पञ्चवर्षेभ्य: अधिकासेवा चेत् २००० अतिरिक्तवेतनम्)

६) प्रतिदिनं गोष्ठीमूल्यं २००० 

७) २०००० मासिकवृत्ति:

८) मतक्षेत्रार्थं ७००००

९) कार्यालयव्ययाय ६००००

१०) प्रथमश्रेण्यां रेलयानयात्रा

११) अनुभवाधारेण अन्या: विशेषसुविधा:

१२) भौगोलिकपरिस्थित्यानुसारं विशेषराज्यानां सांसदेभ्य: अतिरिक्तसुविधा:

१३) सर्वकारीयावास:

१४) जलं (४००० किलोलिटर परिमितम्)

१५) विद्युत् (५०००० युनिट परिमितम्)

१६) वायुयानाय विशेषसुविधा:

१७) मार्गसुविधायै फास्टटेग् द्वयम्

तथैव पूर्वसांसदेभ्य: अपि विशेषसुविधा: दीयन्ते

अद्यतनवार्ता

भारतम्

विश्वम्