Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयरिजर्वबेंकद्वारा ब्रिटेनदेशात् स्वस्य १०० टन (प्रायः १ लक्ष किलोग्रामः) परिमितं सुवर्णं पुनरानीतम्। 

नवीनतमदत्तांशानुसारं २०२४ तमस्य वर्षस्य मार्चमासे  आरबीआइ-संस्थायाः आहत्य ८२२.१ टनसुवर्णम् आसीत्, येषु ४१३.८ टन विदेशेषु निक्षिप्तम् आसीत्। गतवित्तवर्षे रिजर्वबैङ्कस्य सुवर्णभण्डारः २७.५ टनपर्यन्तं वर्धितः अस्ति। भारते १०० टन सुवर्णम् आनेतुं मासान् यावत् योजना कृता ततः सम्पूर्णा योजना निष्पादिता । वित्तमन्त्रालयेन सह स्थानीयाधिकारिणः, आरबीआइ, सर्वकारस्य अन्यपक्षैः सह योजनायां निष्पादने च संलग्नाः आसन्। आरबीआइ न केवलं भारते अपितु विदेशेषु अपि सुवर्णं रक्षति। यदि भारतस्य आर्थिकस्थितिः आपद: कारणेन अथवा राजनैतिक-अस्थिरतायाः कारणेन दुर्गता भवति तर्हि विदेशेषु स्थापितं सुवर्णं तस्य निवारणाय उपयोगी भवति। प्राकृतिकविपद: सुवर्णभण्डारस्य नाशं कर्तुं शक्नुवन्ति अत: विभिन्नस्थानेषु सुवर्णं स्थापयित्वा विपद् न्यूनीकरोति।

अद्यतनवार्ता

भारतम्

विश्वम्