Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

टाटा सन्स् इत्यस्य मानदाध्यक्षस्य उद्योगसाहसिकस्य रतन नवल टाटा इत्यस्य ८६ वर्षे निधनम् अभवत्। बुधवासरे रात्रौ ११ वादनस्य समीपे सः अन्तिमश्वासं गृहीतवान्। सः मुम्बईनगरस्य ब्रीच् कैण्डी-चिकित्सालये इन्टेन्सिव् केयर यूनिट् (ICU) इत्यत्र प्रवेशितः आसीत्, सः आयुःसम्बद्धैः रोगैः पीडितः आसीत्। यशस्कायस्य तस्य मर्त्यशरीरं नरिमन-पोइन्टस् क्षेत्रे राष्ट्रिय-प्रदर्शन-कला-केन्द्रे (NCPA) जनदर्शनार्थं स्थापितमस्ति। अत्र जनाः सायं ४ वादनपर्यन्तं अन्तिमदर्शनं कर्तुं शक्नुवन्ति। सायङ्काले राज्यसम्मानेन अन्तिमसंस्कारः भविष्यति। रतनटाटा अस्य मासस्य ७ दिनाङ्के आईसीयू-मध्ये प्रवेशं प्राप्तवान् इति वार्ता आसीत्। परन्तु सः स्वयमेव एतत् न अङ्गीकृत्य सः कुशलः अस्ति, नियमितपरीक्षायै चिकित्सालयं प्राप्तवान् इति च अवदत् आसीत्। नैकै: राष्ट्रिय-अन्ताराष्ट्रिय-महानुभवै: तस्मै श्रद्धाञ्जलि: प्रदत्ता।

अद्यतनवार्ता

भारतम्

विश्वम्