Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

'अपराजिता महिलाबालविधेयक:' (पश्चिमबङ्गस्य आपराधिककानूनसंशोधनम्) पश्चिमबङ्गविधानसभाया मङ्गलवासरे पारितम्। ‘बलात्कारविरोधी विधेयकं’ विपक्षस्य पूर्णसमर्थनेन सर्वसम्मत्या पारितम् अभवत्। विपक्षनेतु: शुभेन्दु अधिकारिण: प्रस्तावितानि संशोधनानि सदनेन न स्वीकृतानि। विधेयकानुसारं बलात्कारस्य पीडिता मृता वा निश्चेतना तिष्ठति वा चेत् दोषिणां मृत्युदण्डस्य प्रावधानं प्रस्तावितं भवति। एतदतिरिक्तं बलात्कारस्य, सामूहिकबलात्कारस्य च दोषिणः आजीवनकारावासस्य दण्डं प्राप्नुयुः, तेषां कृते पैरोल इत्यस्य सुविधा न भवेत् इति प्रस्तावः कृतः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्