Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अतिवृष्ट्या देशस्य अनेकेषु राज्येषु जलप्रलयस्य स्थितिः उत्पन्ना अस्ति। असमदेशे जलप्रलयकारणात् गुरुवासरे ८ जनाः मृताः, अतः अद्यावधि मृतानां संख्या ५६ अभवत्। २९ मण्डलेषु २१.१३ लक्षं जनाः जलप्रलयेन प्रभाविताः सन्ति। एतावता काजीरङ्गाराष्ट्रिय-अभयारण्ये जलप्रलयस्य कारणेन ३१ पशवः मृताः, जलप्रलयात् ८२ पशवः उद्धारिताः। उत्तराखण्डस्य गङ्गोत्री-गोमुखपट्टिकायां चिरबासाधारायां जलप्रलयकारणेन तस्मिन् निर्मितः काष्ठसेतुः भग्नः अभवत् येन देहल्या: द्वौ कांवडिया - भक्तौ मृतौ। हिमशैलस्य द्रवणात् प्रवाहस्य जलस्तरः सहसा वर्धितः आसीत्। सप्तदश राज्येषु जम्बू-कश्मीरउत्तराखण्ड-हिमाचलप्रदेश-पंजाब-उत्तरप्रदेश-बिहार-सिक्किम-उत्तर-पश्चिमबंगाल-अरुणाचलप्रदेश-मणिपुर-मेघालय-असम-नागालैण्ड-त्रिपुरा-मिजोरम-महाराष्ट्र-गोवाराज्येषु प्रचण्डवृष्ट्या सचेतना उद्घोषिता अस्ति। 

अपरपक्षे ग्रीष्मकाले काश्मीर-उपत्यका, यत्र जना: ऊष्णतां दूरीकर्तुं गच्छन्ति तत्र तप्तताप: अनुभूयते। श्रीनगरं वा गुलमार्गः वा, सोनमार्गः वा अमरनाथयात्रामार्गः वा, प्रथमवारं सम्पूर्णा उपत्यका तापतरङ्गै: प्रभाविता अस्ति। तापमानं  निरन्तरं ३२ डिग्रीतः उपरि तिष्ठति। एतेन विद्यालयेषु अवकाश: उद्घोषित:।

चित्रम् - प्रतीकात्मकम्

अद्यतनवार्ता

भारतम्

विश्वम्