Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मध्यप्रदेशस्य बुरहानपुरे रेलयानं मार्गभ्रष्टं कर्तुं जाते षड्यन्त्रे नूतनानि तथ्यानि प्रकाशितानि। बुरहानपुरे सेनाकर्मचारिणः वहति रेलयाने विस्फोटकै: नाशयितुं प्रयत्नः कृतः इति रेलमार्गस्रोतांसि रविवासरे अवदन्। एषा घटना १८ सेप्टेम्बर् दिनाङ्के अभवत्। विगत २४ घण्टेषु यूपी-नगरे रेलयानस्य रेलमार्गविक्षेपस्य घटनाः अपि प्रकाशिता:। उत्तरप्रदेशस्य कानपुरस्य प्रेमपुरस्थानकस्य समीपे रविवासरे जेटीटीएन वस्तुवाहकयानं मार्गभ्रष्टं कर्तुं षड्यंन्त्रं जातमासीत्। रेलमार्गे स्थापितः अनिलकोश: प्राप्तः। लोको-चालकः कोशं दृष्ट्वा एव आपत्कालीन-स्थगनं कृत्वा १० फिटपूर्वं रेलयानं स्थगितवान्। विगतवर्षे या: अपि रेलदुर्घटना: जाता: तत्र एतादृशानि साक्ष्यानि प्राप्तानि आसन् येन स्पष्टं भवति यत् अद्यत्वे रेलदुर्घटनां जनयितुं षड्यन्त्रानि जायमानानि सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्