Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभाया: विपक्षनेत्रा तथा कोंग्रेसनेत्रा राहुलगान्धिना उक्तं यत् गुजरातनगरे कोंग्रेसनेतृत्वे द्विविधा: कार्यकर्तार: सन्ति। केचन सन्ति ये जनै: सह स्थित्वा कोंग्रेसस्य विचारधारां हृदये धारयन्ति। द्वितीयाः ये जनसामान्यतः विच्छिन्नाः सन्ति, दूरं उपविशन्ति, तेषु नैके भारतीयजनतादलेन सह सम्मिलिता: सन्ति। "एतयोः समूहयोः पृथक्करणं मम दायित्वम् अस्ति। कोंग्रेस-पक्षे नेतॄणाम् अभावः नास्ति। सिंहा: सन्ति, परन्तु तेषां पृष्ठे एका शृङ्खला संलग्ना अस्ति, अतः ते शृङ्खलाभिः बद्धा: सन्ति। अत्र धावनाश्वा: विवाहयात्रायां बद्धाः सन्ति। अहमदाबादस्य जेड् हॉल इत्यत्र राज्यस्य प्रायः २ सहस्रं कार्यकर्तॄन् सम्बोधितवान्। महिलादिवसस्य अवसरे राहुलगान्धि अपि महिलाकार्यकर्तृभिः सह मेलनं कृतवान्।

अद्यतनवार्ता

भारतम्

विश्वम्