कोंग्रेसस्य राष्ट्रियप्रवक्त्री राधिकाखेडा उक्तवती यत् राहुलगान्धिनः भ्रमणसमये सुशील आनन्द शुक्लः मह्यं मद्यपानाय आमन्त्रणं दत्तवान्। भूपेशबघेल छत्तीसगढं त्यक्तुमकथयत्। राजीवभवने अहं निरुद्धा आसम्। चीत्कारं याचनां च कुर्वती आसम्। तै: दुर्व्यवहार: कृत:। एतत् मया सचिनपायलट, भूपेशबघेलः, जयराम रमेशः च उक्ताः, परन्तु किमपि न अभवत् । त्यागपत्रस्य अनन्तरं राधिका खेडा दिल्लीनगरे पत्रकारसम्मेलनं कृत्वा वक्तव्यं दत्तवती।
पूर्वं राधिका खेडा उक्तवती आसीत् यत् अहं अयोध्यानगरं दर्शनार्थं गता। बालरामस्य दर्शनेन एतावान् विरोधः भविष्यति इति मया न कल्पितम्। अहं एका सनातनधर्मस्य अनुयायिनी, अतः मया न्यायः न प्राप्तः। भवतां (काङ्ग्रेसस्य) युद्धं रामेण सह राजनैतिकदलेन वा सह अस्ति? २२ वर्षाणाम् अनन्तरं अहं दलात् त्यागपत्रं दत्तवती।