Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य प्रातः ४ वादने पञ्जाबराज्यस्य फतेहगढसाहबनगरे भाण्डवाहनद्वयस्य संघट्टनम् अभवत्। एतेषु एकस्य इञ्जिनयन्त्रस्य पार्श्वमार्गे गच्छत: यात्रिरेलयानेन सह संघट्टनमभवत्। दुर्घटनायां भाण्डवाहनस्य द्वौ चालकौ घातितौ, यौ पटियालानगरस्य राजकीयचिकित्सालये प्रेशितौ। इयं दुर्घटना गतवर्षे ओडिशायां बालासोरनगरे या दुर्घटना जाता तादृशी एव। यत्र २९३ तः अधिकाः जनाः मृताः आसन्। सूचनानुसारं न्यूसिरहिण्डस्थानके अङ्गारभरितरेलयानं स्थगितमासीत्। तस्य पृष्ठतः अन्यत् अङ्गारयुक्तंरेलयानम् आगतं संघट्टनं च जातम्। अनेन भाण्डवाहनस्य इञ्जिनयन्त्रस्य कोलकातातः जम्मू-तावी-नगरं प्रति गच्छता विशेषग्रीष्मकालीनरेलयानेन (०४६८१) सह घर्षणं जातम्। चालकः तत्क्षणमेव रेलयानं स्थगितवान् ततः महती दुर्घटना निवारिता। परन्तु वाहनस्य आंशिकक्षतिः अभवत्। दुर्घटनानन्तरं यात्रिकयानं अन्यं इञ्जिन स्थापयित्वा राजपुरानगरं प्रेषितम्। अपि च पटलस्य उन्नयनस्य कार्यं आरब्धम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्