Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पञ्जाबभाजपा-अध्यक्षः सुनीलजाखड: इन्डिगो एयरलाइन्स् इत्यस्य सेवाविषये प्रश्नान् उत्थापितवान्। चण्डीगढतः दिल्लीपर्यन्तं यात्रायां जाखडस्य आसन्द: शिथिल: दृश्यते स्म। सामाजिकमाध्यममञ्चे X इत्यत्र भग्नासनानां चित्राणि प्रसारयन् जाखड: अवदत् यत्, 'यदा सः चालकदलस्य सदस्यैः सह एतस्मिन् विषये वार्तालापं कृतवान् तदा ते तं इन्डिगो-समवायस्य जालपुटद्वारा आवेदनं कर्तुं उक्तवन्त:। नागरिकउड्डयनमहानिदेशालयेन (DGCA) एतत् अवश्यं द्रष्टव्यं यत् प्रमुखविमानसेवानां एषा ‘चलता है’ मनोवृत्तिः सुरक्षानियमान् यावत् न व्याप्नुयात्।” इतः पूर्वं केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः एयर इण्डिया इत्यस्य सुविधानां विषये प्रश्नान् उत्थापितवान् आसीत्। शिवराजस्य विमानयाने भग्नासने यात्रा कर्तव्या आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्