अमेरिकादेशस्य राष्ट्रपतिना बाइडेनद्वारा देशस्य निर्यातपरिषदि भारतीयमूलस्य द्वौ व्यापारविशेषज्ञौ नियुक्तौ। तौ च विशेषज्ञौ स्तः पुनीतरंजनः राजेशसुब्रमण्यमः च। निर्यातपरिषद् अन्ताराष्ट्रियव्यापारविषयान् पश्यन्ती महत्त्वपूर्णा संस्था अस्ति इति कारणेन उभयो: नियुक्तिः अतीव महत्त्वपूर्णा इति मन्यते।