जम्मूकश्मीरराज्यस्य कटरानगरे वैष्णोदेवी-रोपवे-परियोजनायाः विरुद्धं खच्चर-पालकी-चालकाः विरोधम् आरब्धवन्त:। सोमवासरे यदा आरक्षकै: आन्दोलनकारिणः निवारयितुं प्रयत्नः कृतः तदा जनाः पाषाणप्रहारं कर्तुं आरब्धवन्तः। हिंसकविरोधे केचन जनाः आहता: इति सूचना। वैष्णोदेवी श्राइन बोर्ड कटरानगरस्य ताराकोटमार्गस्: सांझीछत इत्यनयो: मध्ये १२ कि.मी.पर्यन्तं २५० कोटिरूप्यकाणां व्ययेन रोपवे परियोजनायाः निर्माणं कुर्वन् अस्ति। वैष्णोदेवीमन्दिरं द्रष्टुं आगच्छत: भक्तान् खच्चराः, पालकीवाहका: च नयन्ति। एतत् तेषां आयस्य स्रोतः अस्ति। अत: एव ते तस्य विरोधं कुर्वन्ति।