Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लाभान्विताः

प्रधानमन्त्री नरेन्द्रमोदी रविवासरे प्रातःकाले “मानकी बात” इत्यस्य ११३ तमे प्रकरणे उक्तवान् – वयं २३ अगस्तदिनाङ्के राष्ट्रिय-अन्तरिक्ष-दिवसम् आचरितवन्तः। चन्द्रयान-३ इत्यस्य सफलतां वयं आनन्दितवन्तः। विकसितभारतस्य आधारः सुदृढः जात:। अन्तरिक्षक्षेत्रसंशोधनात् यूनां लाभः अभवत्। 

प्रधानमन्त्री Galaxy-i startup इत्यस्य संस्थापकेन सह चर्चां कृतवान्। इदं स्टार्टअप IIT मद्रासस्य छात्राणां अस्ति। छात्राः अवदन् यत् अस्माकं उपग्रहः आगामिवर्षे प्रक्षेपितः भविष्यति। तस्मिन् अपि वयं भागं गृहीतवन्तः। 

अस्मिन् वर्षे रक्तदुर्गात् राजनैतिकपृष्ठभूमिरहितान् १ लक्षं जनान् राजनैतिकव्यवस्थायां योजयितुं उक्तम्। अनेन ज्ञातं यत् अस्माकं युवानः राजनीतिं प्रविष्टुम् इच्छन्ति। तेषां सम्यक् मार्गदर्शनस्य आवश्यकता वर्तते। जनाः नैकान् बहुविधान् प्रतिभावान् प्रेषितवन्तः। केचन युवानः पत्रे लिखितवन्तः यत् तेषां कृते राजनीतिप्रवेशः महत् सौभाग्यं भविष्यति। केचन जनाः लिखितवन्तः यत् ते जनानां समस्यानां समाधानार्थं सहायकाः भवितुम् अर्हन्ति। केचन जनाः लिखितवन्तः यत् पारिवारिकराजनीतिः नूतनानां प्रतिभानां नाशं करोति।

अद्यतनवार्ता

भारतम्

विश्वम्