बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना प्रधानमन्त्रिणे नरेन्द्रमोदिने बाङ्गलादेशं आगन्तुं आमन्त्रितवती। एतेन द्वयोः देशयोः मैत्रीसम्बन्धः अधिकः सुदृढः भविष्यति इति सा अवदत्। शेखहसीना भारतस्य द्विदिवसीययात्रायाः कृते शुक्रवासरे नवदेहलीं प्राप्तवती आसीत्। हैदराबादसदने द्वयोः नेत्रो: मध्ये द्विपक्षीयवार्ता अपि अभवत् । उभौ नेतारौ सहयोगपूर्णकार्यार्थं बलं दत्तवन्तौ।