Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य प्रयागराजनगरे महाकुम्भ २०२५ इत्यस्य सज्जता पूर्णतया प्रचलति। महाकुम्भमेलायाम् आकाशात् नदीगहनपर्यन्तं सुरक्षाव्यवस्था नियोजिताः सन्ति। प्रथमवारं प्रयागराजमहाकुम्भस्य संगमक्षेत्रस्य २४ घण्टानिरीक्षणार्थं १०० मीटर्पर्यन्तं अवगाहनम् कर्तुं समर्थानि जलान्तर-ड्रोन्-यन्त्राणि नियोजितानि भविष्यन्ति इति संस्कृतिमन्त्रालयेन रविवासरे उक्तम्। तीर्थयात्रिकाणां अन्येषां च आगन्तुकानां सुविधायै भारतस्य संस्कृतिं विविधतां च प्रदर्शयितुं ९२ मार्गाणां, ३० सेतूनां नवीनीकरणं, ८०० बहुभाषिकचिह्नानां स्थापना च इति मन्त्रालयेन उक्तम्। प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे उत्तरप्रदेशसर्वकारः प्रयागराजनगरे भव्यं, सुरक्षितं, आध्यात्मिकरूपेण च समृद्धं महाकुम्भमेला २०२५ सुनिश्चितं कुर्वन् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्