प्रधानमन्त्री नरेन्द्रमोदी २८ दिनाङ्के नूतनस्य संसद्भवनस्य राजनीतिं करिष्यति। वार्तां प्राप्य कोंग्रेस-तृणमुलकोंग्रेस-आप्-शिवसेना(उद्धवठाकरे)-जनतादल-कम्युनिस्ट-आदय: नवदश राजनैतिकपक्षा: तस्य विरोधं कुर्वन्ति। तेषां मतानुसारेण संसद्भवनस्य उद्घाटनं राष्ट्रपतिना भवेत्। नरेन्द्रमोदिना संसद्भवनस्य उद्घाटनं राष्ट्रपतिपदस्य गरिम्ण: अपमानम् अस्ति।
अपरपक्षे अमितशाहेनोक्तं यत् छत्तीसगधविधानसभाया: भूमिपूजनं सोनियागान्धिना राहुलगान्धिना च कृतम् आसीत्। राज्यपालः आहूत: न आसीत्। केन्द्रीयमन्त्रिणा हरदीपसिंहेनोक्तं यत् संसद: एनेक्सीभवनस्य उद्घाटनं इन्दिरागान्धिना, पुस्तकालयस्य उद्घाटनं राजीवगान्धिना कृतम् आसीत्। यदि एवं चेत् नरेन्द्रमोदी संसद्भवनस्य उद्घाटनं किमर्थं कर्तुं न शक्नोति?
संविधाने अपि संसद्भवनस्य उद्घाटनसम्बन्धिन: नियमा: न प्राप्यन्ते।
मूलतः एषा जनसामान्यै: अनवगमनशीला राजनीति: एव।
अधुना प्रवर्तमानस्य संसद्भवनस्य निर्माणं १९२७ तमे वर्षे अभवत् आसीत्। अत: पुरातनभवनस्य स्थाने नूतनभवनस्य आवश्यकता अस्ति एव।
प्रवर्तमाने संसद्भवने उपवेशनव्यवस्था लोकसभायां ५९०, राज्यसभायां च २८० जनानाम् अस्ति। नूतनसंसद्भवने उपवेशनव्यवस्था लोकसभायां ८८८, राज्यसभायां च ३८४ जनानाम् अस्ति। एतेन सह प्रेक्षकाणाम् उपवेशनव्यवस्था ३३६त: अधिकानाम् अपि च संयुक्तसत्रस्य कृते लोकसभायामेव १२७२ त: अधिकानाम् अस्ति।
भारतस्य संविधानस्य परिच्छेद: ८१ लोकसभायां संरचनां परिभाषयति। तदनुसारं लोकसभास्थानानां निर्णय: जनसंख्याया: आधारेण भवति। एतदर्थं निर्वाचनायोगेन परिसीमाङ्कनं करणीयं भवति।
१९७६ तमे वर्षे यदा परिसीमाङ्कनं कृतमासीत् तदा भारतस्य जनसंख्या ५० कोटिः आसीत्। अर्थात् प्रायश: १० लक्षजनानां एक: प्रतिनिधि:।
भारतस्य प्रवर्तमाना जनसंख्या १४२ कोटि: अस्ति। यदि लोकसभाया: निर्वाचनस्थानानां वृद्धि: न भवति तदा गणनानुसारं प्रायश: १७ लक्षजनानां कृते एक: सांसद:। तर्हि अयं चिन्तनीय: विषय: यत् एकः जनप्रतिनिधिः १७लक्षजनानां प्रतिनिधित्वं कथं कुर्यात् !!!
२०१९ तमे वर्षे राष्ट्रपतिना प्रणवमुखर्जीद्वारा अपि लोकसभापरिसीमाङ्कनस्य आश्यकता कथिता आसीत्। तस्मिन् एव समये मिलनवैष्णव: जैमी हिटसन इत्यनयोः द्वारा “भारते प्रातिनिधित्वस्य जायमानः संकट:” इति एकं शोधपत्रं प्रस्तुतमासीत्। तदनुसारं जनसंख्याया: आधारेण लोकसभास्थानानि ८४८ भवेयु:।
यदि परिसीमांकनं भवति तर्हि विपक्षाणां स्वस्य अस्तित्वस्य चिन्ता अस्ति। तेषां चिन्तनानुसारं परिसीमाङ्कनेन तेषां पक्षाणां हानि: भविष्यति। उत्तरभारत-दक्षिणभारतयो: स्थानेषु भेद: वर्धितुं शक्यते। अत: विपक्षा: येन केन प्रकारेण बाधाम् उत्पादयन्ति।