रक्षामन्त्री राजनाथसिंहः २०२५ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के मंगलवासरे अवदत् यत् पाकिस्तान-कश्मीरं (PoK) विना जम्मू-कश्मीरराज्यम् अपूर्णमस्ति । PoK भारतस्य मुकुटमणिः अस्ति। एतेन सह सः समीपस्थं देशं आतङ्कवादीनां प्रशिक्षणशिबिराणां संचालनविषये सातर्क्यं दत्तवान्। पाकिस्तानदेशः आतङ्कवादं न त्यक्तवान् इति रक्षामन्त्री अवदत्। ८० प्रतिशतं आतङ्कवादिनः पाकिस्तानदेशात् आगच्छन्ति। जम्मूप्रदेशे अन्ताराष्ट्रियसीमायाः समीपस्थे अखनूरक्षेत्रे पूर्वसैनिकानां सम्मेलने भागं ग्रहीतुं आगतः रक्षामन्त्री अवदत् यत्, १९६५ तमे वर्षे भारतीयसेनया हाजीपीरस्य उपरि भारतीयध्वज: स्थापित: आसीत्, परन्तु समाधानवार्ताद्वारा मुक्तः जात:। यदि एतत् नाभविष्यत्,आतङ्कवादस्य मार्ग: एव नाभविष्यत्। पाकिस्तानस्य कृते इदं वैदेशिकक्षेत्रम् अस्ति। आतङ्कवादस्य कृते पीओके इत्यस्य उपयोगः भवति। अद्यत्वेऽपि तत्र आतङ्कवादिप्रशिक्षणशिबिराणि सन्ति, पाकिस्तानेन तानि समापनीयानि। इति।