प्रधानमन्त्रिणा नरेन्द्रमोदिना रविवासरे अमेरिकन-एआइ-संशोधकेन लेक्स-फ्रिड्मैन्-इत्यनेन सह घण्टात्रयस्य पॉड्कास्ट् (साक्षात्कारः) प्रकाशित:। प्रधानमन्त्रिणा पाकिस्तानम्, चीनदेश:, ट्रम्प, विश्वराजनीति:, क्रीडा, सङ्घ:, व्यक्तिगतजीवनं चेत्येतेषां सम्बद्धानां प्रश्नानाम् उत्तरं दत्तम्। पाकिस्तानस्य विषये तेनोक्तं यत् ततः सर्वदा विश्वासघातः प्राप्त:। पाकिस्तानस्य प्रधानमन्त्री नवाजशरीफः शपथग्रहणसमारोहे आमन्त्रितः परन्तु शान्ते: कृते सर्वप्रयत्नाः वैरभावेन सम्मुखीकृताः। पाकिस्तानस्य जनाः शान्तिम् इच्छन्ति। आशास्महे यत् एकस्मिन् दिने पाकिस्तानदेशः स्वस्य प्रज्ञां प्राप्य शान्तिमार्गं स्वीकुर्यात्।