गृहमन्त्रिणा अमितशाहेन बी.आर.अम्बेडकरविषये दत्तं वक्तव्यं दृष्ट्वा देशस्य राजनीतिः उष्णा अस्ति। अस्मिन् विषये कोङ्ग्रेससहिताः सर्वे विपक्षदलाः भाजपतः क्षमायाचनां याचन्ते। इतरथा प्रधानमन्त्री नरेन्द्रमोदी अम्बेडकरस्य विषये कोङ्ग्रेसदलं प्रति लक्ष्यं साधितवान्। प्र.म. मोदी अवदत् यत्, "कोङ्ग्रेसदल: अम्बेडकरस्य अपमानं गोपयितुं न शक्नोति। एकस्यैव वंशस्य नेतृत्वे एकः दलः अम्बेडकरस्य परम्परां नाशयितुं प्रयत्नं कृतवान्। जनै: वारं वारं दृष्टं यत् एस.सी.,एस.टी.समुदायजनान् अपमानितान् कर्तुं यथाशक्यं दुष्प्रयत्न: कृत:। संसदि गृहमन्त्री अमितशाहः कोङ्ग्रेसस्य डा. अम्बेडकरस्य अपमानस्य, अनुसूचितजाति-जनजाति-समुदायस्य अवहेलनाया: च अन्धकारमय-इतिहासं प्रकटीकरोति। तेन प्रस्तुतानि तथ्यानि कोङ्ग्रेस-पक्ष: भयभीत: जात: अस्ति अत: नाटकं करोति।