सर्वोच्चन्यायालयः शीघ्रमेव स्वस्य निर्णयान् क्षेत्रीयभाषासु जनभोग्यान् कर्तुं सज्जीभविष्यति। अस्मिन् विषये मुख्यन्यायाधीशः (CJI) डी.वाय्.चन्द्रचूडः स्वयमेव मुम्बईनगरे आयोजिते कार्यक्रमे सूचनां दत्तवान् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अपि तस्य निर्णयस्य स्वागतं कृतवान्। तेनोक्तं यत् अस्य कृते प्रौद्योगिक्याः उपयोगः अपि योग्यः भविष्यति। एतेन अनेकानां जनानां विशेषतः यूनां सहायता भविष्यति।