अद्यारभ्य प्रधानमन्त्री नरेन्द्रमोदी ओडिशाराज्यस्य त्रिदिवसीययात्रायां अस्ति। भुवनेश्वरे सः कार्यकर्तॄन् सम्बोधयन् विधानसभानिर्वाचनेषु उपनिर्वाचनेषु च भाजपायाः विजयस्य श्रेयः तेभ्य: दत्तवान्। प्रधानमन्त्रिणा उक्तं यत् प्रथमं ओडिशाराज्ये, ततः हरियाणाराज्ये, ततः महाराष्ट्रे भाजपा विजयी अभवत्। एषः भारतीयजनतादलस्य विशेषता अस्ति, दलश्च कार्यकर्तॄणां सामर्थ्यमस्ति। एतत् प्रथमवारम् अभवत् यत् कश्चन प्रधानमन्त्री राज्ये ३ दिवसान् यावत् तिष्ठति। स: भुवनेश्वरनगरस्य लोकसेवाभवनसम्मेलनकेन्द्रे ३० नवम्बरदिनाङ्के १ दिसम्बरदिनाङ्के आयोजिते डीजीपी-आईजी सम्मेलने भागं ग्रहिष्यति।