Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारत-केनेडा-देशयोः मध्ये प्रचलत: राजनैतिकसम्बन्धह्रासस्य मध्ये इटलीदेशे प्रधानमन्त्री नरेन्द्रमोदी, केनेडादेशस्य प्रधानमन्त्री जस्टिन ट्रूडो  च मिलितवन्तौ। एतत् मेलनं जी-७ शिखरसम्मेलनस्य समये अभवत् । मोदी एतस्य मेलनस्य चित्रं सामाजिकमाध्यमेषु प्रसारितवान्। एतस्य मेलनस्य अनन्तरं केनेडादेशस्य प्रधानमन्त्री जी-७ शिखरसम्मेलनस्य समये प्रधानमन्त्रिणा नरेन्द्रमोदिना सह तस्य मेलनं सम्यक् अभवत् इति अवदत्। तेनोक्तं यत् अहं तस्मै निर्वाचनं जित्वा पुनः प्रधानमन्त्री भवितुं अभिनन्दनानि दत्तवान्। वयं महत्त्वपूर्णविषयेषु चर्चां कृतवन्तः। वयं मिलित्वा कार्यं कर्तुं सज्जाः स्मः।

 

 

अद्यतनवार्ता

भारतम्

विश्वम्