प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे पश्चिमबङ्गस्य संदेशखालीनगरस्य बसिरहटतः भाजपाप्रत्याशिना, संदेशखालीपीडितासु एकया रेखया सह दूरभाषेण भाषितवान्। अस्मिन् काले पीएम मोदी रेखां शक्तिस्वरूपा इति अपि वर्णितवान् । तस्या: प्रचारस्य सज्जता, जनानां मध्ये पक्षस्य समर्थनम् इत्यादीनां विषये प्रधानमन्त्रिणा वार्तालापः कृतः। रेखया अपि प्रधानमन्त्रिणे संदेशखालीनगरे महिलानां कष्टानां विषये सूचना दत्ता।