प्रधानमन्त्री नरेन्द्रमोदी रविवासरे भारतमण्डपे आयोजिते विकसितभारतयुवानेतृसंवाद: २०२५ इति कार्यक्रमे विकसितभारतस्य, युवाशक्ते:, अमृतकालस्य, भारतस्य भविष्यस्य विषये च उक्तवान्। तेनोक्तं यत् लक्ष्यं विना जीवनं नास्ति, जीवनं जीवितुं लक्ष्यम् ओषधिः एव। ये वदन्ति “त्यजतु मित्र, एतत् भविष्यति एव, परिवर्तनस्य का आवश्यकता, किमर्थं त्वं तस्य विषये कष्टं करोषि”, ते तादृशभावनायुक्ताः जनाः मृतशरीरात् अधिकं किमपि न भवन्ति।