Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी रूसदेशस्य भ्रमणे अस्ति। तस्मिन् एव काले अमेरिकादेशे नाटो-सङ्घस्य समागमः प्रचलति। एतादृश्यां परिस्थितौ रूसदेशः युक्रेनदेशस्य ५ नगरेषु ४० तः अधिकैः क्षेपणास्त्रैः आक्रमणं कृतवान्, यस्य कारणेन युक्रेनदेशे बहु नाश: जात: अस्ति। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की एतस्य पुष्टिं कृतवान् अस्ति। अत्र न्यूनातिन्यूनं ११ जनाः मृता:, ४० तः अधिकाः आहता: च। विश्वस्य देशाः अस्य युद्धस्य निवारणार्थं निरन्तरं प्रयतन्ते ।

अद्यतनवार्ता

भारतम्

विश्वम्