Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे (२८ फरवरी २०२५) दिल्लीनगरस्य सुन्दरनर्सरी इत्यत्र भव्यसूफीसङ्गीतमहोत्सवे जहान-ए-खुसरो २०२५ इत्यस्मिन् भागं गृहीतवान्। एतस्मिन् समये प्र.म. मोदी उक्तवान् यत् जहान-ए-खुसरो इत्यस्य अस्मिन् आयोजने एकः भिन्नः सुगन्धः अस्ति, एषः सुगन्धः भारतस्य मृत्तिकायाः ​​एव अस्ति। तत् हिन्दुस्थानं, यस्याः तुलना हजरत अमीर खुसरो स्वर्गेण कृतवान्। अस्माकं भारतं तत् स्वर्गस्य उद्यानं, यत्र संस्कृते: प्रत्येकं वर्णः प्रफुल्लितः अस्ति। अत्र मृत्तिकाप्रकृतौ किमपि विशेषं वर्तते। सम्भवतः अत एव यदा सूफी परम्परा भारते आगता तदा स्वभूमिना सह सम्बद्धा इव अनुभूतम्। हजरत खुसरो तस्मिन् समये विश्वस्य सर्वेभ्यः बृहद्देशेभ्यः भारतं महत्तरम् इति उक्तवान्। सः अवदत् यत् संस्कृतं विश्वस्य श्रेष्ठा भाषा अस्ति। सः भारतस्य ऋषीन् तत्कालिनविद्वत्सु महान्त: इति मन्यते स्म। 

अद्यतनवार्ता

भारतम्

विश्वम्