Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य (२९ अप्रैल) सायं दिल्लीनगरस्य प्रधानमन्त्री-आवासे प्रधानमन्त्रिण: मोदिन: अध्यक्षतायां सार्धघण्टापर्यन्तं उच्चस्तरीयसभा आयोजिता। पाकिस्ताने अनेकानि प्रतिबन्धानि स्थापयित्वा मङ्गलवासरे अग्रिमरणनीत्याः चर्चायै उच्चस्तरीयसभा आयोजिता। मेलनेऽस्मिन् रक्षामन्त्री राजनाथसिंह:, राष्ट्रीयसुरक्षामार्गदर्शक: (एनएसए) अजीत डोवाल:, रक्षाप्रमुख (सीडीएस) जनरल अनिल चौहान, सेनाप्रमुख: जनरल उपेन्द्र द्विवेदी, नौसेनाप्रमुख एडमिरल दिनेश के त्रिपाठी च उपस्थिता: आसन्। गोष्ठ्या: अनन्तरं प्रधानमन्त्री मोदी उक्तवान् - 'वयं सेनायै स्वतन्त्रतां दद्म:।' आतङ्कवादाय यथायोग्यं उत्तरं दास्यामः। सेना आक्रमणस्य समयं, विधिं, लक्ष्यं च निर्धारयिष्यति । सेनायाः सामर्थ्ये अस्माकं पूर्णविश्वासः अस्ति। युक्तं उत्तरं दातुं राष्ट्रियसङ्कल्पः एव।' एतस्या: राष्ट्रियसुरक्षासमीक्षागोष्ठ्या: अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी रा.स्व.सङ्घस्य सरसङ्घचालकेन सह मेलनं कृतवान्।

अद्यतनवार्ता

भारतम्

विश्वम्