बुधवासरे प्रातः कजाकिस्तानदेशस्य अक्ताऊनगरे यात्रीविमानं दुर्घटितम्। समाचारसंस्थायाः रायटर् इत्यस्य अनुसारं विमाने ६२ यात्रिकाः ५ चालकदलस्य सदस्याः च आसन्। तेषु २८ जनाः उद्धारिताः सन्ति। २२ जनाः चिकित्सालये प्रवेशिताः सन्ति। आहतानाम् मध्ये द्वौ बालकौ स्तः येषां स्थितिः गम्भीरा अस्ति। दुर्घटनायां ३९ जनानां मृत्योः आशङ्का वर्तते। विमानं अजरबैजानदेशात् रूसस्य चेचन्याप्रान्तस्य राजधानी ग्रोज्नीनगरं प्रति गच्छति स्म, परन्तु कजाकिस्तानस्य अक्टाउ-नगरात् प्रायः ३ कि.मी दूरे आपत्कालीन-अवरोहणं कर्तव्यम् आसीत्। सघननीहारस्य कारणेन विमानस्य मार्गः परिवर्तितः। विमानं दुर्घटनापूर्वं विमानस्थानकस्य अनेकपरिक्रमणानि कृतवान् आसीत्। विमानचालकः आपत्कालीन-अवरोहणस्य अनुमतिम् अपि याचितवान् आसीत्। परन्तु पश्चात् सः विमानस्थानकस्य समीपे समुद्रतटे आपत्कालीन-अवरोहणं कर्तुं बाध्यः अभवत्। दुर्घटनाग्रस्तं विमानं अजरबैजान-विमानसेवायाः एम्ब्रार् १९० मॉडल् आसीत्।