बाङ्गलादेशे अल्पसंख्याकानां स्थितिविषये भयावहा स्थितिः उत्पन्ना अस्ति। एतदतिरिक्तं यदा देशस्य हिन्दुसमुदायस्य नेता चिन्मयकृष्णदासस्य गृहणविषये बहवः प्रश्नाः उपस्थिता: सन्ति तदा बाङ्गलादेशस्य सर्वोच्चन्यायालये इस्कॉनसम्प्रदायस्योपरि प्रतिबन्धस्य आग्रहं कुर्वती याचिका पञ्जीकृता अस्ति। वार्तानुसारं याचिकायां इस्कॉन-सङ्घ:उग्रवादिसंघटनम् इति उक्तम् अपि च इस्कॉन इत्येतत् साम्प्रदायिक-अशान्तिं च प्रवर्धयति इति आरोपः कृतः।