गतदिने पाकिस्तानवायुसेनया ’ट्विटर्’ माध्यमेन एकः सन्देशः प्रसारितः आसीत् –’सुखेन शयनं कुरुताम्, पा.वा.सेना जागर्ति’ इति । तस्यामेव रात्रौ वाय्वाक्रमणेन भारतेन प्रतिकारस्य दृढसङ्कल्पः पूर्णः कृतः। एतेन सम्पूर्णे पाकिस्ताने किङ्कर्तव्यमूढतायाः वातावरणं दृश्यते । पूर्वमेव भारतस्य आर्थिकाक्रमेण पाकिस्तानस्य सामान्यजनजीवनं शोकग्रस्तं जातमस्ति। एतस्मिन् समये एव आक्रमणेन पाकिस्तानसैन्यस्य सामर्थ्यहीनता अपि सर्वैः ज्ञाता। भारतस्य वायुपुत्राणाम् पराक्रमस्यास्य उद्घोषणा पाकिस्तानस्य एकेन सैन्याधिकारिणः एव कृतम्। आदिनम् आपत्कालिकगोष्ठ्यः जाताः पाकिस्ताने । तेषां सैन्याधिकारिणां उद्बोधनानि अपि विपरितानि आसन्। समग्रे देशे सर्वकारस्य निष्क्रियतां प्रति क्रोधः व्याप्तः अस्ति। पाकिस्तानसंसदि अपि प्रधानमन्त्रिणम् इमरानं प्रति ’शेइम् शेइम्’ इति क्रोधपूर्णानि शोकपूर्णानि उद्गाराणि व्याप्तानि। प्रसारणमाध्यमेषु अपि पाकिस्तानसैन्यस्य अकार्यविरुद्धम् आदिनं वार्ताः प्रसारिताः। स्वसिम्नि आगत्य आक्रमणं कृत्वा पुनश्च गतानां भारतीयवायुपुत्राणां पराक्रमेण स्वात्मसु ग्लानिम् अनुभवतां पाकिस्तानस्याधिकारिणां मुखानि दर्शनीयानि आसन् ।