आतङ्कवादि-आक्रमणस्य प्रत्युत्तररूपेण भारतेन शीघ्रमेव सिन्धुजलसन्धिः निरस्त: कृत:। अस्य कारणात् पाकिस्तानं प्रति प्रवहमानं जलं स्थगितं भविष्यति। अन्ये कठोरनिर्णया: अपि भारतेन स्वीकृता:। भारतस्य उग्रदर्शनेन सम्पूर्णे पाकिस्ताने मिश्रप्रतिभाव: दृश्यते। किंकर्तव्यमूढा: पाकिस्तानाधिकारिण: मत्तप्रलापं कुर्वन्त: दृश्यन्ते। अस्मिन् क्रमे पाकिस्तानस्य रेलमन्त्री हनीफ-अबासी उक्तवान् यत् देशस्य सर्वाणि रेलस्थानकानि पाकिस्तानस्य सशस्त्रसेनायाः नियन्त्रणे स्थापितानि सन्ति। एतस्य उद्देश्यं सैन्यसामग्रिणां शस्त्राणां च द्रुतपरिवहनं सुनिश्चितं करणीयम्, येन सम्भाव्ययुद्धे सैन्यसज्जतायां विलम्बः न भविष्यति। तेनोक्तं यत् पाकिस्तानस्य गौरी, शाहीन, गजनवी १३० परमाण्वस्त्राणि च भारताय एव भारतं प्रति सम्मुखीभूतानि सन्ति।