पाकिस्तानस्य कराचीनगरे शुक्रवासरे धान्यवितरणसमये सम्मर्दकारणात् भयधावने द्वादश जनाः मृताः। घटना इयम् एकस्य यन्त्रागारस्य परिसरे अभवत्। अत्र रमजानसमये निर्धनानाम् कृते खाद्यपदार्थाः अन्यवस्तूनि च वितर्यन्ते स्म । मृतेषु ८ महिलाः ३ बालकाः च सन्ति । सञ्चारमाध्यमस्य विवरणानुसारं घटनास्थले आरक्षकाः उपस्थिताः आसन्, परन्तु ते सम्मर्दं नियन्त्रयितुम् असमर्थाः आसन्।