अन्यत् युद्धं जगति आविर्भूतं भवितुमर्हति। पाकिस्तानदेशः मङ्गलवासरे विलम्बेन अफगानिस्तानदेशे पाकिस्तानीतालिबानसङ्घस्य निगूढस्थानानां लक्ष्यं कृत्वा वाय्वाक्रमणं कृतवान्। अफगानिस्तानसीमायां पक्तिकाप्रान्तस्य पर्वतीयक्षेत्रेषु आक्रमणमिदं जातम्। आक्रमणेऽस्मिन् न्यूनातिन्यूनं ४६ जनाः मृताः सन्ति। अपरपक्षे अधुना अफगानिस्तानदेशः अपि प्रतिक्रियाम् अयच्छत्। अफगानिस्तानदेशेन उक्तं यत् 'मातृभूमिरक्षणार्थं वयं प्रतिकारात्मकं कार्यं करिष्यामः' इति।