मङ्गलवासरे रात्रौ अफगानिस्तानदेशे पाकिस्तानस्य आक्रमणे ४६ जनाः मृताः ततः परं तालिबान् प्रतिकारं कर्तुं प्रतिज्ञां कृतवान्। अधुना पाकिस्तानसीमां प्रति १५ सहस्राणि तालिबान्-योद्धार: अग्रेसरा: इति वार्ता प्राप्ता अस्ति। एते योद्धार: काबुल-कन्दहार-हेराट्-नगरात् पाकिस्तानस्य खैबर-पख्तुन्ख्वा-प्रान्तस्य मीर-अली-सीमां प्रति गच्छन्त: सन्ति। एतत् सर्वविदितं यत् अफगानिस्तानस्य पक्तिकाप्रान्ते पाकिस्तानेन विमानप्रहाराः कृताः आसन्। तालिबान्-प्रशिक्षण-सुविधां नाशयित्वा तहरीक-ए-तालिबान्-पाकिस्तान (TTP) लक्ष्यं कृत्वा विमान-आक्रमणेषु ४६ जनाः मृताः, येषु अधिकांशा: महिलाः बालकाः च आसन्।