जम्मू-कश्मीरस्य पहलगाम-आक्रमणस्य अनन्तरं भारतेन पाकिस्तान-विरुद्धं कठोरा: पञ्च निर्णया: स्वीकृता: सन्ति तेषु एक: सिन्धुजलसन्धे: स्थगनम्। सिन्धुजलसन्धिः १९६० तमे वर्षे नेहरुसर्वकारेण कृत: आसीत्। एतस्य स्थगनकारणात् पाकिस्ताने व्यग्रता कोलाहल: च उत्पन्नः। भारतस्य निर्णयस्य प्रभावः समग्रे पाकिस्ताने अभवत्। अस्मिन् एव क्रमे पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः अपि गुरुवासरे (२४ एप्रिल २०२५) उच्चस्तरीयसुरक्षासभाम् आहूतवान्, यस्मिन् सः भारतीयविमानयानानां कृते स्वस्य वायुक्षेत्रस्य प्रतिबन्धस्य आदेशं दत्तवान् एतत् एव न, जलस्य स्थगनं युद्धस्य आह्वानमेव इति स: अवदत्।