जम्मू-कश्मीरे आतङ्कवादिन: पर्यटकानाम् उपरि आक्रमणं कृतवन्त:। पर्यटकानां कृते प्रसिद्धे स्थाने पहलगाम् इत्यत्र आतङ्कवादिनः पर्यटकान् स्वनामानि धर्मस्य च विषये पृष्टवन्तः, ततः गोलिकाप्रहारं कृतवन्तः। अस्मिन् क्रूर-आक्रमणे एतावता २६ पर्यटकाः मृताः सन्ति। नैके जनाः आहता: सन्ति, येषु केचन गम्भीरस्थितौ सन्ति, मृतानां संख्या वर्धितुं शक्नोति। इदं आक्रमणं योजनाबद्धरूपेण कृतमस्ति। गुजरात-कर्नाटक-महाराष्ट्रादिराज्येभ्यः आगतान् पर्यटकान् लक्ष्यीकृत्य तान् मारयित्वा ते निष्ठुरा: पलायनं कृतवन्त:। प्रधानमन्त्री नरेन्द्रमोदी स्वस्य विदेशप्रवासं त्यक्त्वा प्रत्यागत्य साक्षात् राष्ट्रियसुरक्षामन्त्रिणा (एन.एस.ए.), विदेशमन्त्रिणा (ईएएम), विदेशसचिवेन (एफएस) च सह विमानपत्तनस्थानके एव आपत्कालीनमेलनं कृतवान्।