‘एकराष्ट्रं, एकं निर्वाचनं’ इति विषये बलं दातुं सर्वकारेण उक्तं यत् आदर्शाचारसंहिताकारणात् नैकवारं विकासकार्ये सामान्यजीवने च बाधा भवति। ‘एकराष्ट्रं, एकं निर्वाचनं’ इति कार्यान्वितुं प्रस्तावितानां विधेयकानाम् अनुसारं निर्वाचने महान् व्ययः भवति, तत्र समय: अपि अधिक: गच्छति। परन्तु निर्वचनायोगस्य मतानुसारं आचारसंहिता बाधानुरूपा नास्ति, प्रचारकार्ये संलग्नेभ्य: सर्वेभ्य: समानावसरान् प्रददाति इति।