Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रीयपरीक्षणसंस्थया (एनटीए) शुक्रवासरे (जून २८) रात्रौ यूजीसी-नेट्, सीएसआईआर-नेट्, एनसीईटी परीक्षायाः नूतनाः तिथयः घोषिताः। एता: परीक्षा: जुलाई-मासस्य १० दिनाङ्कात् सितम्बरमासस्य चतुर्थदिनाङ्कपर्यन्तं भविष्यन्ति। एताः तिस्र: परीक्षाः पूर्वं जूनमासे निर्धारिता: आसन् परन्तु विभिन्नै: कारणै: निरस्तीकृता:। अस्मिन् पर्याये परीक्षा अन्तर्जालद्वारा आयोजिता अस्ति। एतेन सह अखिलभारतीय-आयुष-स्नातकोत्तरप्रवेशपरीक्षा (AIAPGET) 2024 निर्धारित तिथौ अर्थात् 6 जुलाई दिनाङ्के भविष्यति।

चित्रम् - प्रतीकात्मकम् 

अद्यतनवार्ता

भारतम्

विश्वम्