एनआईए इति राष्ट्रिय-अन्वेषणसंस्थया गतवर्षे अमेरिका, ब्रिटेन, केनेडादेशेषु भारतीयदूतावासेषु आक्रमणं कर्तार: ४३ संदिग्धा: अभिज्ञाता:। सूत्रानुसारं अन्वेषणसंस्था क्राउड्सोर्सिंग् इत्यस्य उपयोगेन सर्वेषां शङ्कितानां अन्वेषणं कृतवती। अस्मिन् विषये एनआईए इत्यनेन गृहमन्त्रालयस्य आदेशानुसारं २०२३ तमस्य वर्षस्य जूनमासे अमेरिका, ब्रिटेन, कनाडादेशेषु भारतीयकूटनीतिज्ञानाम् उपरि आक्रमणस्य प्रकरणं स्वीकृतम् आसीत्।