राष्ट्रियराजमार्गेषु शुल्कसङ्ग्रहे सर्वकारेण महत् परिवर्तनं कृतमस्ति। राष्ट्रियराजमार्गप्राधिकरणेन अधुना मार्गकरसंग्रहणकार्यं वित्तकोषेभ्य: समर्पयितुं निर्णयः कृतः अस्ति। नूतना प्रणाली द्वारका एक्स्प्रेस्वे इत्यत्र आरभ्यते, भारतस्य प्रथमा बहुपथमुक्तप्रवाह (MLFF) करसंग्रहणप्रणाली भविष्यति। एनएचएआइ इत्यनेन एतदर्थं वित्तकोषेभ्य: आवेदनम् काङ्क्षितमस्ति। सर्वाधिकं राजस्वभागं य: वितकोष: दास्यति तस्मै वर्षत्रयपर्यन्तं करग्रहणाधिकारं प्रदास्यते” इति।