पश्चिमबङ्गालराज्ये सोमवासरे (१४ अप्रैल २०२५) वक्फसंशोधनकानूनस्य विरुद्धं पुनः हिंसा प्रवृत्ता अस्ति। दक्षिण २४ परगनाप्रदेशे आन्दोलनकारिणः पुलिसवाहज्वालितवन्त: उत्पातं च कृतवन्त:। अस्मिन् क्षेत्रे बहुसंख्याकाः पुलिसकर्मचारिणः नियोजिताः सन्ति। अपि च मुर्शिदाबादहिंसायाः विषये पश्चिमबङ्गस्य राज्यसचिवः मोहम्मद सलीमः अवदत् यत्, "बहुप्रयत्नेन अहं तत्र गन्तुं समर्थः अभवम् यत्र सर्वा हिंसा अभवत्, जनाः च मारिताः। तत्र आरक्षका: उपस्थिता: न आसन्। ग्रामजनानां बहुवारं अनुरोधे अपि उपद्रवकारिणां कृते किमपि न कृतवन्त:, परोक्षानुमति: दत्ता। सम्पूर्णः ग्रामः दग्धः, नष्टः, लुण्ठितः, तत्र कोऽपि नासीत्।" न आरक्षका: न अग्निशामकदलम्।"