Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बिहारे NEET परीक्षाप्रकरणे शिक्षामन्त्रालयेन बिहारआरक्षकविभागेन विस्तृतं प्रतिवेदनं याचितम् अस्ति। शिक्षामन्त्रालयेन उक्तं यत् नीट्-सम्बद्धस्य अनुग्रहगुणदानस्य विषये समाधानं प्राप्तम् अस्ति। बिहारस्य  उपमुख्यमन्त्रिणा विजयकुमारसिंहाद्वारा प्रतिपादितं यत् अस्य सूत्रं तेजस्वियादवपर्यन्तं गच्छति। पूर्व-उपमुख्यमन्त्रिण: तेजस्वियादवस्य निजीसचिवेन प्रीतमेन कक्ष: आरक्षित: आसीत्। पटनानगरे परीक्षायां भ्रष्टाचारस्य विषये बिहारआरक्षविभागस्य अन्वेषणसंस्थायाः विस्तृतप्रतिवेदनं प्राप्तम् अस्ति। प्रतिवेदनं प्राप्य अग्रे कार्यवाही भविष्यति। अस्मिन् विषये सम्बद्धस्य कस्यचित् जनस्य/संस्थायाः विरुद्धं कठोरकार्यवाही भविष्यति इति सर्वकारेण पुनः उक्तम्।

अतिथिगृहस्य प्रवेशपञ्जिकायां अनुरागयादवस्य नाम अस्ति। तस्य पार्श्वे ’मन्त्रीजी’ इति लिखितम् अस्ति। विजयसिन्हाद्वारा उक्तं यत् प्रथमे दिनाङ्के तेजस्वी यादवस्य व्यक्तिगतसचिवः प्रीतमकुमारः अतिथिगृहस्य कर्मचारी प्रदीपकुमारं आहूय सिकंदरकुमारयदवेन्दुः इत्यस्य कृते कक्षं स्थापयितुम् अवदत्।

अद्यतनवार्ता

भारतम्

विश्वम्