Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रा.कां.पा (अजित गुट) नेता बाबा सिद्दीकी शनिवासरे रात्रौ मुम्बईनगरे भुशुण्ड्या मारितः। बान्द्राक्षेत्रस्य खेरनगरे तस्य विधायकपुत्रस्य ज़ीशनसिद्दिकी इत्यस्य कार्यालयात् बहिः त्रयः अपराधिन: तस्य उपरि गोलीकाप्रहारं कृतवन्तः। सिद्दीकी इत्यस्मै वाई-वर्गस्य सुरक्षा प्रदत्ता आसीत्, परन्तु घटनायाः समये तस्य समीपे कोऽपि आरक्षक: नासीत्। त्रिभ्य: आक्रमकेभ्य: द्वौ गृहीतौ। गतमासद्वयात् ते तस्य गृहस्य पुत्रस्य च कार्यालयस्य निरीक्षणं कुर्वन्ति स्म। अस्यां घटनायां लॉरेन्सगणस्य सम्बद्धतायाः शङ्का वर्तते। 

अद्यतनवार्ता

भारतम्

विश्वम्