Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरतः अनुच्छेद ३७० निष्कासनानन्तरं आयोजिते विधानसभानिर्वाचने INDI सङ्घटनेन ४९ आसनानि प्राप्तानि। सङ्घटनस्य नेशनलकॉन्फ्रेंसद्वारा ४२, कोंग्रेसद्वारा च ६ आसनानि प्राप्तानि। सर्वकारस्य निर्माणार्थं ४६ आसनानां आवश्यकता वर्तते। भारतीयजनतादलेन २९ आसनानि प्राप्तानि सन्ति यत्र गतनिर्वाचनस्य तुलनायां ४ आसनानां लाभ: अस्ति। परन्तु जम्मू-कश्मीर-भाजपा-अध्यक्ष: रविन्दर रैना नोवशेरा क्षेत्रत: अष्टसहस्रमतैः पराजितः। सः स्वस्य त्यागपत्रं उपर्यधिकारिणं प्रति प्रेषितवान् अस्ति। अत्र एतत् अवधातव्यमस्ति यत् यतो हि भारतीयजनतादलेन अधिकानि आसनानि न प्राप्तानि परन्तु मतप्रतिशतं सर्वाधिकम् अस्ति भारतीयजनतादलेन २५.६६, नेशनलकोन्फ्रेसद्वारा  २३.४४ तथा च कोंग्रेसदलेन ११.९५ प्रतिशतं मतानि प्राप्तानि सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्