मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज्जुः भारतस्य भ्रमणे अस्ति। तस्य प्रधानमन्त्रिणा सह मेलनं हैदराबादभवने अभवत्। अस्मिन् काले प्रधानमन्त्री नरेन्द्रमोदी, मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज्जु च मालदीवस्य हनीमाधू-अन्ताराष्ट्रियविमानस्थानकस्य धावनमार्गस्य उद्घाटनं कृतवन्तौ। अस्मिन् काले मालदीवदेशे RuPay कार्डद्वारा भुक्तिः आरब्धा। प्रधानमन्त्रिणा उक्तं -"रक्षा-सुरक्षा-सहकार्यस्य विविधपक्षेषु वयं विस्तरेण चर्चां कृतवन्तः। एकथा-खात-परियोजनायाः कार्यं द्रुतगत्या प्रचलति। हिन्द-महासागर-क्षेत्रे स्थिरतायाः समृद्धेः च कृते वयं मिलित्वा कार्यं करिष्यामः।