डोनाल्डट्रम्पः २० जनवरी दिनाङ्के अमेरिकादेशस्य राष्ट्रपतिपदं स्वीकृतवान्। तदनन्तरं प्रथमवारं प्रधानमन्त्री तेन सह वार्तालापं कृतवान्। द्वयोः देशयोः परस्परसम्बन्धस्य विषये द्वयोः नेत्रो: मध्ये चर्चा अभवत्। प्रधानमन्त्रिणा स्वस्य सामाजिकमाध्यमं X इत्यत्र एतस्य उल्लेख: कृत:। तेन लिखितम् - "मम प्रियमित्रेण राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन सह वार्तालापं कृत्वा महती प्रसन्नता। तस्य ऐतिहासिकद्वितीयकार्यकालस्य अभिनन्दनम्। वयं परस्परं लाभप्रदाय सहयोगाय प्रतिबद्धाः स्मः। वयं अस्माकं जनानां हिताय वैश्विकशान्तिसमृद्ध्यसुरक्षार्थं च मिलित्वा कार्यं करिष्याम:।"