पूर्वोत्तरराज्येषु एन.डी.ए. इति राष्ट्रिय-लोकतन्त्रीय-सन्धानस्य विजयस्यानन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना देहलीस्थितं दलकार्यालयं समागत्य कार्यकर्तारः सम्बोधिताः। अवसरेऽस्मिन् दलस्य वरिष्ठाः नैके कार्यकर्तारः अधिकारिणः च उपस्थिताः आसन्। प्रधानमन्त्रिणोक्तं यत् नैके कार्यकर्तारः दलस्य प्रचाराय प्रसाराय च स्वमात्मनः आहूतिं दत्तवन्तः सन्ति। राजनैतिकविचारधारायाः प्रभावेण एते मारिताः। लोकतन्त्रस्य एतदेव सामर्थ्यमस्ति यत् अतीव दीनाः मतदातारः अपि स्वमतस्य प्रहारेण हिंसायाः विचारधारां तिरस्कृत्य भारतीयजनतादलाय स्वमतदानं अकुर्वन्। निर्वाचनेषु जयपराजयं भवत्येव । विजयेन सह पराजयं अपि हृदयेन स्वीकरणीयम् इति लोकतन्त्रस्य परम्परा अस्ति। प्रधानमन्त्रिणा उक्तं यत् वास्तुशास्त्रिणः पूर्वोत्तरकोणस्य दोषं प्रथममेव अवलोकयन्ति। यदि ईशानकोणः समृद्धः तर्हि गृहस्य समृद्धिः । एतस्मिन् प्रदेशे विजयेन देशस्य विकासः अपि झटिति भविष्यति। तेन योजितं यत् देहल्यां सर्वकारनिर्माणस्यानन्तरं सर्वप्रथमं एतेषु प्रदेशेषु एव ध्यानं केन्द्रितं अभवत्। स्वतन्त्रतायाः पश्चात् यावन्तः मन्त्रिणः पूर्वोत्तरराज्येषु प्रवासं कृतवन्तः ततोऽपि अधिकाः केन्द्रसर्वकारस्य मन्त्रिणः चतुर्षु वर्षेषु पूर्वोत्तरराज्यं प्रति प्रेषिताः। अत्रत्यजनानां कृते देहली दूरे आसीत् परन्तु अद्यत्वे देहली तेषां गृहाङ्गणे आनीता। विकासस्य राजनीतिः एव विजयस्य आधारः अस्ति।