Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पूर्वप्रधानमन्त्रिण: डॉ. मनमोहनसिंहस्य मृत्योः अनन्तरं अन्त्येष्टि-स्मारक-विषये राजनीतिः आरब्धा अस्ति। भारतीयजनतापक्ष: पूर्वप्रधानमन्त्रिणम् अपमानयति इति कोङ्ग्रेसपक्षेण आरोपः कृतः। यथा अटलबिहारीवाजपेयीवर्यस्य दाहसंस्कारः कृतः, स्मारकस्य निर्माणं च कृतम्, तथैव मनमोहनसिंहस्य दाहसंस्कारः यस्मिन् स्थाने अभवत्, तत्रैव स्मारकनिर्माणं करणीयम्। विषयेऽस्मिन् पूर्वप्रधानमन्त्रिण: पीवी नरसिंहरावस्य भ्राता अवदत् यत् कोङ्ग्रेसेन दिल्लीनगरे तस्य दाहसंस्कारः अवरुद्ध:। न केवलं तत्, तस्य पार्थिवदेहाय कोङ्ग्रेसमुख्यालयः अपि निरुद्धः आसीत्। पीवी नरसिंहरावस्य भ्राता मनोहररावः अस्मिन् विषये कोङ्ग्रेस-सोनियागान्धिनो: उपरि गम्भीरः आरोपं कृतवान् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्